वांछित मन्त्र चुनें

पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि । विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्य॑: स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

अंग्रेज़ी लिप्यंतरण

pipartu mā tad ṛtasya pravācanaṁ devānāṁ yan manuṣyā amanmahi | viśvā id usrāḥ spaḻ ud eti sūryaḥ svasty agniṁ samidhānam īmahe ||

पद पाठ

पिप॑र्तु । मा॒ । तत् । ऋ॒तस्य॑ । प्र॒ऽवाच॑नम् । दे॒वाना॑म् । यत् । म॒नु॒ष्याः॑ । अम॑न्महि । विश्वाः॑ । इत् । उ॒स्राः । स्पट् । उत् । ए॒ति॒ । सूर्यः॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥ १०.३५.८

ऋग्वेद » मण्डल:10» सूक्त:35» मन्त्र:8 | अष्टक:7» अध्याय:8» वर्ग:7» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवानां यत्-ऋतस्य प्रवाचनम्) सृष्टि के आदि में अग्नि आदि परम ऋषियों का जो प्रवचन करने योग्य वेदज्ञान जिसका है, उन ऋषियों द्वारा उनका प्रवचन परमात्मा कराता है (मनुष्याः-अमन्महि) हम मनुष्य चाहते हैं (तत्-मा पिपर्तु) वह मेरी रक्षा करे (सूर्यः) वह विद्यासूर्य परमात्मा (विश्वाः-उस्राः-इत् स्पट्-उदेति) सारी विद्या-धाराओं को ही जानता हुआ ऋषियों के अन्दर साक्षात् होता है ॥८॥
भावार्थभाषाः - समस्तविद्याप्रकाशक परमात्मा सृष्टि के आरम्भ में अग्नि आदि परम ऋषियों को उनके अन्दर साक्षात् वेदज्ञान का उपदेश मनुष्यों के कल्याणार्थ देता है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवानाम्-यत्-ऋतस्य प्रवाचनम्) सृष्ट्यादौ खल्वग्निप्रभृतीनां परमर्षीणां यत् प्रवाचनमृतं वेदज्ञानं यस्य तैर्ऋषिभिः प्रवचनं कारयति परमात्मा ‘ऋतस्ये’ति षष्ठी व्यत्ययेन (मनुष्याः-अमन्महि) वयं मनुष्या याचामहे “मन्महे याच्ञाकर्मा” [निघ०३।१९] (तत् मा पिपर्तु) तदस्मान् रक्षतु यतः (सूर्यः) स विद्यासूर्यः परमात्मा (विश्वाः उस्राः इत्-स्पट् उदेति) सर्वान् विद्यारश्मीन् हि स्पृशन् जानन् हि “स्पश स्पर्शने” तेषु साक्षाद् भवति ॥८॥